|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.7. अध्यायः 007
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
संवर्तमरुत्तसंवादः॥ 1 ॥ संवर्तेन समयबन्धनपूर्वकं मरुत्तंप्रति याजनप्रतिज्ञानम्॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
संवर्त उवाच।
कथमस्मि त्वया ज्ञातः केन वा कथितोस्मि ते।
एतदाचक्ष्व मे तत्त्वमिच्छसे चेन्मम प्रियम्॥ 14-7-1(92520)
सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः।
मिथ्या च ब्रुवतो मूर्धा शतधा ते स्फुटिष्यति॥ 14-7-2(92521)
मरुत्त उवाच। 14-7-3x(7746)
नारदेन भवान्मह्यमाख्यातो ह्यटता पथि।
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा॥ 14-7-3(92522)
संवर्त उवाच। 14-7-4x(7747)
सत्यमेतद्भवानाह स मां जानाति सत्रिणम्।
कथयस्व तदेतन्मे क्वनु सम्प्रति नारदः॥ 14-7-4(92523)
मरुत उवाच। 14-7-5x(7748)
भवन्तं कथयित्वा तु मम देवर्षिसत्तमः।
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम्॥ 14-7-5(92524)
व्यास उवाच। 14-7-6x(7749)
श्रुत्वा तु पार्थिवस्यैत्संवर्तः प्रमुदं गतः।
एतावदहमप्येवं शक्नुयामिति सोऽब्रवीत्॥ 14-7-6(92525)
ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव।
रूक्षया ब्राह्मणि राजन्पुनः पुनरथाब्रवीत्॥ 14-7-7(92526)
वातप्रधानेन मया स्वचित्तवशवर्तिना।
एवं विकृतरूपेण कथं याजितुमिच्छसि॥ 14-7-8(92527)
भ्राता मम समर्थश्च वासवेन च सङ्गतः।
वर्तते याजने चैव तेन कर्माणि कारय॥ 14-7-9(92528)
गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः।
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम्॥ 14-7-10(92529)
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित्।
याजयेयं कथंचिद्वै स हि पूज्यतमो मम॥ 14-7-11(92530)
स त्वं बृहस्पतिं गच्च तमनुज्ञाप्य चाव्रज।
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि॥ 14-7-12(92531)
मरुत्त उवाच। 14-7-13x(7750)
बृहस्पतिं गतः पूर्वमहं संवर्ते तच्छृणु।
न मां कामयते याज्यं मुनिर्वासववारितः॥ 14-7-13(92532)
अमरं याज्यमासाद्य याजयिष्ये न मानुषम्।
शक्रेण प्रतिषिद्धोऽहं मरुत्तं मा स्म याजये॥ 14-7-14(92533)
स्पर्धते हि मया विप्र सदा हि स तु पार्थिवः।
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलसूदनः॥ 14-7-15(92534)
स मामधिगतं प्रेम्णा याज्यत्वे न बुभूषति।
देवराजं समाश्रित्य तद्विद्धि मुनिपुङ्गव॥ 14-7-16(92535)
सोहमिच्छामि भवता सर्वस्वेनापि याजितुम्।
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः॥ 14-7-17(92536)
न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम्।
प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति॥ 14-7-18(92537)
संवर्त उवाच। 14-7-19x(7751)
चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम्।
यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव॥ 14-7-19(92538)
याज्यमानं मया हि त्वां बृहस्पतिपुंरदरौ।
द्विषेतां समभिक्रुद्धावेतदेकं समर्थये॥ 14-7-20(92539)
स्थैर्यमत्र कथं मे स्यात्स त्वं निःसंशयं कुरु।
कुपितस्त्वां न हीदानीं भस्म कुर्या सवान्धवम्॥ 14-7-21(92540)
मरुत्त उवाच। 14-7-22x(7752)
यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः।
तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि॥ 14-7-22(92541)
मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित्।
विषयैः सङ्गतं चास्तु त्यजेयं सङ्गतं यदि॥ 14-7-23(92542)
संवर्त उवाच। 14-7-24x(7753)
आविक्षित शुभा बुद्धिर्वर्ततां तव कर्मसु।
याजनं हि ममाप्येव वर्तते हृदि पार्थिव॥ 14-7-24(92543)
अभिधास्ते च ते राजन्नक्षयं द्रव्यमुत्तमम्।
येन देवान्सग्धर्वाञ्शक्रं चाभिभविष्यसि॥ 14-7-25(92544)
न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः।
विप्रियं तु करिष्यामि भ्रातुश्चेन्द्रस्य चोभयो॥ 14-7-26(92545)
गमयिष्यामि शक्रेण समतामपि ते ध्रुवम्।
प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते॥ ॥ 14-7-27(92546)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि सप्तमोऽध्यायः॥ 7 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-7-1 मे सत्यं जीवितं चेत्प्रियंतवेति क.थ.पाठः॥ 7-7-4 सत्रिणं कपटवेषच्छन्नम्॥ 7-7-6 अहमप्येनं कुर्यामिति तमब्रवीदिति क.थ.पाठः॥ 7-7-8 मधुप्रयोगदानेन स्वचित्तपरिवर्तिनेति क.थ.पाठः॥ 7-7-23 भोगेषु सम्यग्भोगांश्च त्यजेयमिति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|